वांछित मन्त्र चुनें

अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑। यः शꣳस॑ते स्तुव॒ते धायि॑ प॒ज्रऽइन्द्र॑ज्येष्ठाऽअ॒स्माँ२ऽअ॑वन्तु दे॒वाः ॥५० ॥

मन्त्र उच्चारण
पद पाठ

अ॒स्मेऽइत्य॒स्मे। रु॒द्राः। मे॒हना॑। पर्व॑तासः। वृ॒त्र॒हत्य॒ इति॑ वृत्र॒ऽहत्ये॑। भर॑हूता॒विति॒ भर॑ऽहूतौ। स॒जोषा॒ इति॑ स॒ऽजोषाः॑ ॥ यः। शꣳस॑ते। स्तु॒व॒ते। धायि॑। प॒ज्रः। इन्द्र॑ज्येष्ठा॒ इतीन्द्र॑ऽज्येष्ठाः। अ॒स्मान्। अ॒व॒न्तु॒। दे॒वाः ॥५० ॥

यजुर्वेद » अध्याय:33» मन्त्र:50


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब राजपुरुष कैसे हों, इस विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! (यः) जो (पज्रः) संचित धनवाला जन जिनकी (शंसते) प्रशंसा और (स्तुवते) स्तुति करता और जिसने धन को (धायि) धारण किया है, उस और (अस्मान्) हमारी जो (अस्मे) हमारे बीच में (मेहना) धनादि को छोड़ने (रुद्राः) शत्रुओं को रुलाने और (पर्वतासः) उत्सवोंवाले (वृत्रहत्ये) दुष्ट को मारने के लिये (भरहूतौ) संग्राम में बुलाने के विषय में (सजोषा) एकसी प्रीतिवाले (इन्द्रज्येष्ठाः) सभापति राजा जिनमें बड़ा है, ऐसे (देवाः) विद्वान् लोग (अवन्तु) रक्षा करें, वे तुम्हारी भी रक्षा करें ॥५० ॥
भावार्थभाषाः - जो राजपुरुष पदार्थों की स्तुति करनेवाले, श्रेष्ठों के रक्षक, दुष्टों के ताड़क, युद्ध में प्रीति रखनेवाले, मेघ के तुल्य पालक, प्रशंसा के योग्य हैं, वे सबको सेवन योग्य होते हैं ॥५० ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथ राजपुरुषाः कीदृशाः स्युरित्याह ॥

अन्वय:

(अस्मे) अस्मासु (रुद्राः) शत्रून् रोदयन्ति ते (मेहना) धनादिसेचकाः। अत्राकारादेशः। (पर्वतासः) पर्वाण्युत्सवा विद्यन्ते येषान्ते। अत्र पर्वमरुद्भ्यां तबिति वार्त्तिकेन तप् प्रत्ययः। (वृत्रहत्ये) वृत्रस्य दुष्टस्य हत्ये हननाय (भरहूतौ) भरे सङ्ग्रामे हूतिराह्वानं तत्र (सजोषाः) समानप्रीतिसेवनाः (यः) नरः (शंसते) (स्तुवते) स्तौति। अत्र शब्विकरणः। (धायि) ध्रियते। अत्र लुङ्यडभावः। (पज्रः) प्रार्जितैश्वर्य्यः। पृषोदरादित्वादिष्टसिद्धिः। (इन्द्रज्येष्ठाः) इन्द्रः सभापतिर्ज्येष्ठो येषु ते (अस्मान्) (अवन्तु) रक्षन्तु (देवाः) ॥५० ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! यः पज्रः याञ्छंसते स्तुवते येन च धनं धायि तमस्माँश्च येऽस्मे मेहना रुद्राः पर्वतासो वृत्रहत्ये भरहूतौ सजोषा इन्द्रज्येष्ठा देवा अवन्तु। ते युष्मानप्यवन्तु ॥५० ॥
भावार्थभाषाः - ये राजजनाः पदार्थस्तावकाः श्रेष्ठरक्षका दुष्टताडकाः सङ्ग्रामीया मेघवत्पालकाः प्रशंसनीयाः सन्ति ते सर्वैः सेवनीयाः ॥५० ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जे राजपुरुष विद्वानांचे श्रेष्ठ रक्षक - दुष्टांचे निर्दालक, युद्धाची आवड असणारे, मेघासारखे पालन करणारे व प्रशंसा करण्यायोग्य आहेत त्यांचा सर्वांनी अंगीकार करावा.